कूल तीर तूल मूल शाला अक्ष सम इत्येतानि उत्तरपदानि अवयीभावसमासे आद्युदात्तानि भवन्ति। परिकूलम्। उपकूलम्। परितीरम्। उपतीरम्। परितूलम्। उपतूलम्। परिमूलम्। उपमूलम्। परिशालम्। उपशालम्। पर्यक्षम्। उपाक्षम्। सुषमम्। विषमम्। निषमम्। दुःषमम्। तिष्ठद्गुप्रभृतिषु एते पठ्यन्ते। कूलादिग्रहणं किम्? उपकुम्भम्। अव्ययीभावे इति किम्? परमकूलम्। उत्तरमकूलम्। पर्यादिभ्यः कूलादीनाम् आद्युदात्तत्वं विप्रतिषेधेन भवति। परिकूलम्। उपकूलम्।
"कूल संवरणे" (धा।पा।५२५), ["कूल आवरणे--धा।पा।] "पार तीर कर्मसमाप्तौ" (धा।प।१९११,१९१२), "तूल निष्कर्षे" (धा।पा।५२७), "मूल प्रतिष्ठायाम्()" (धा।पा।५२९)--एभ्यो घञ्(), तेनैते कूलादय आद्युदात्तः। "शुल हुल पत्लृ गतौ"--(धा।पा।८४३,८४४,८४५) अस्माद्घञ्()। शालाप्याद्युदात्ता।
स्त्रीत्वम्? "तत्पुरुषे शालायाम्()"
६।२।१२२ इति निपातनात्()। "तृ()वदिहनिकमिकसिभ्यः सः" (द।उ।९।२१,पं।उ।३।६२) [वृ()तृ()वदिहनिकमिकषियुमुचिभ्यः सः--द।उ; वृ()तृ()वदिनिकमिकषिभ्यः सः--पं।उ।] इति "अशेर्देवने" (द।उ।९।२४) इति च सप्रत्ययान्तत्वादक्षशब्दोऽन्तोदात्तः। योऽपि "अक्ष्णोऽदर्शनात्()"
५।४।७६ इत्यचि समासान्ते कृतेऽक्षशब्दः सम्पद्यते, सोऽप चित्स्वरेणान्तोदात्तः, तस्यापीह ग्रहणम्()। "षमु वैकल्ये"--(धा।पा।८२९) [षम अवैकल्ये--धा।पा।
] अस्मात्? पचाद्यच्(), तेन समोऽन्तोदात्तः। यस्तु सर्वादिषु समशब्दः सोऽनुदात्तस्तत्रैव पठ()ते, तस्यापीह ग्रहणम्()। "उपकूलम्()" इति। कूलस्य समीपमिति "अव्ययं विभक्ति"
२।१।६ इत्यादिनाव्ययीभावः। "परिकूलम्()" इति। "उपपरी वर्जने"
१।४।८७ इति परिशब्दः कर्मप्रवचनीयसंज्ञ)। तेन योगे "पञ्चम्यपाङ्परिभिः" (२।३।
१०) इति क#ऊलात्? पञ्चमी। "अपपरिबहिरञ्चवः पञ्चम्या"
२।१।११ इत्यव्ययीभावः। "सुषमम्()" इत्यादौ "सुषमादिषु च"
८।३।९८ इति षत्वम्(),
तस्यासिद्धत्वात्? समशब्द एवायम्()। "तिष्ठद्गुप्रभृतिष्वेते पठ()न्ते" इति। तेन "तिष्ठद्गुप्रभृतीनि च"
२।१।१६ इत्येतेऽव्ययीभावा इति दर्शयति।
"उपकुम्भम्()" इति। अत्र समासान्तोदात्तत्वमेव। "परमकूलम्(), उत्तमकूलम्()" इति। परमं कूलमस्योत्तमं कूलमस्येति बहुव्रीहिः। अत्र पूर्वपदप्रकृतिस्वर एव भवति। यौ तु तत्पुरुषौ परमकूलोत्तमकूलशब्दौ, तत्र बहुव्रीह्रधिकारादेव न भविष्यतीति तन्निवृत्त्यर्थमव्ययीभावग्रहणमयुक्तम्()।
"पर्यादिभ्यः" इत्यादि। "परिप्रत्युपापा वज्र्यमानाहोरात्रावयवेषु"
६।२।३३ इत्यस्यावकाशो यत्र कूलादयो न सन्ति। परिंत्रिगर्तमिति, कूलादीनामाद्युदात्तस्यावकाशो यत्र पर्यादयो विद्यन्ते---अपकूलमिति; परिकूलमित्यत्र तूभयं प्राप्नोति, तत्र विप्रतिषेधेनेदमेवाद्युदात्तत्वं भवति।
समासस्वरापवादो योगः। एवमुत्तरेऽपि "नाचार्यराज" (६।२।
१३३) इत्यादे सूत्रात्? प्राक्()॥